दुर्ग-विज्ञान-महाविद्यालये महर्षेः वाल्मीकि-जयंती-समारोहः उत्साहेन सम्पन्नः
“आदिकविना वाल्मीकिना रामस्य आदर्शाः अमराः कृताः” – आचार्यः कमलनारायणः।
दुर्गनगरस्य शासकीय-विज्ञान-महाविद्यालये संस्कृत-विभागेन योग-विभागेन च संयुक्त-तत्वावधानस्य अन्तर्गते महर्षेः वाल्मीकि-जयंती-निमित्तं एकः गरिमामयः समारोहः आयोजितः। कार्यक्रमस्य शुभारम्भः दीपप्रज्वलन-मङ्गलाचरणाभ्यां जातः।
मुख्यवक्ता आचार्यः कमलनारायणः स्व-संवादे उक्तवान् यत् — “महर्षिः वाल्मीकि भगवानं श्रीरामं ‘हविर्भुजं’ इति अवोचत्, यः हवनं विना भोजनं न गृह्णाति।” सः अपि अवदत् यत् वाल्मीकि न केवलं कविः, अपि तु भारतीय-संस्कृतेः दार्शनिकः समाज-सुधारकश्च आसीत्। सः रामायणग्रन्थेन मर्यादा, आदर्शः, धर्मश्च युगयुगान्तं स्थायिनः कृतवान्।
कार्यक्रमस्य अध्यक्षः महाविद्यालय-प्राचार्यः डॉ. अजयकुमारसिंहः उक्तवान् — “भगवान् श्रीरामः मर्यादापुरुषोत्तमः, येषां आदर्शाः अद्यापि समाजस्य प्रेरणास्रोतः सन्ति। आदिकविना वाल्मीकिना भगवानरामस्य जीवनचरितं अमरं कृतम्। अस्माभिः सर्वैः तेषां प्रति श्रद्धां निवेद्य तेषाम् आदर्शमार्गेण गन्तुं संकल्पः कर्तव्यः।”
अस्मिन् अवसरि संस्कृत-विभागेन पूजा-पद्धति-संस्कार-प्रशिक्षण-प्रमाणपत्रीय-पाठ्यक्रमः आरब्धः, योग-विभागेन च योगविज्ञान-प्रमाणपत्रीय-पाठ्यक्रमः प्रारब्धः।
आचार्यः कमलनारायणः यज्ञानां महत्त्वं प्रकाशयामास। सः उक्तवान् — “यज्ञेन पर्यावरणं शुद्धं भवति, यज्ञः स्वयमेव विज्ञानरूपः।” विद्यार्थिभ्यः यज्ञ-प्रक्रिया अपि प्रदर्शिता।
कार्यक्रमे वरिष्ठाः आचार्याः डॉ. अभिनेषसुराणाः, डॉ. के. पद्मावती, डॉ. ज्योतिधारकरः, डॉ. अम्बरीषत्रिपाठी, अनुरागमिश्रः, तरुणकुमारसाहू, निखिलदेशलहराः, डॉ. शारदासिंहः, डॉ. लतागोस्वामिनी च उपस्थिताः आसन्।
कार्यक्रमस्य संचालनं संस्कृत-विभागाध्यक्षेन प्रो. जनेन्द्रकुमार-दिवानेन कृतम्। धन्यवादोद्गारं क्रीडाअधिकारी योग-विभागाध्यक्षश्च लक्ष्मेन्द्रकुलदीपेन प्रदत्तम्। योग-शिक्षिका डॉ. नीरासिंह अपि कार्यक्रमस्य सफलतायां महत्त्वपूर्णं योगदानं दत्तवती।
अस्मिन् समारोहः विद्यार्थीभिः अपि महर्षेः वाल्मीकिनः जीवनं, विचारांश्च, योगदानं च विषयीकृत्य स्वविचाराः प्रस्तुताः। कार्यक्रमः श्रद्धया, उत्साहेन, गरिमया च सम्पन्नः।
suntimes 